|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.99. अध्यायः 099
Mahabharata - Drona Parva - Chapter Topics
अर्जुनेन रणाङ्कणे हयाप्यायनाय शरैः सरोनिर्माणम्॥ 1 ॥ तथा शरमयवेश्मनिर्माणम्॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-99-0x(4516)(48585)
`वर्तमाने तदा युद्धे द्रोणस्य सह पाण्डुभिः'।
परिवर्तमान आदित्ये तत्र सूर्ये च रश्मिभिः।
रजसा कीर्यमाणाश्च मन्दीभूताश्च कौरवाः॥ 7-99-1(48586)
तिष्ठतां युध्यमानानां पुनरावर्ततामपि।
भज्यतां जयतां चैव जगाम तदहः शनैः॥ 7-99-2(48587)
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु।
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः॥ 7-99-3(48588)
रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः।
चकार यं च पन्थानं ययौ तेन जनार्दनः॥ 7-99-4(48589)
यत्रयत्र रथो याति पाण्डवस्य महात्मनः।
तत्रतत्रैव दीर्यन्ते सेनास्तव विशाम्पते॥ 7-99-5(48590)
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान्।
उत्तमाधममध्यानि मण्डलानि विदर्शयन्॥ 7-99-6(48591)
ते तु नामाङ्किता बाणाः कालज्वलनसन्निभाः।
स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः॥ 7-99-7(48592)
वैणवाश्चायसाश्चोग्रा ग्रसन्तो विविधानरीन्।
रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे॥ 7-99-8(48593)
रथस्थितोऽग्रतः क्रोशं यानस्यत्यर्जुनः शरान्।
रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान्॥ 7-99-9(48594)
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः।
यथाऽगच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत्॥ 7-99-10(48595)
न तथा गच्छति रथस्तपनस्य विशाम्पते।
नेन्द्रस्य न तु रुद्रस्य नापि वैश्रवणस्य च॥ 7-99-11(48596)
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः।
यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः॥ 7-99-12(48597)
प्रविश्य तु रणे राजन्केशवः परवीरहा।
सेनामध्ये हयांस्तूर्णं चोदयामास भारत॥ 7-99-13(48598)
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः।
कृच्छ्रेणरथमूहुस्तं क्षुत्पिपासासमन्विताः॥ 7-99-14(48599)
क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः।
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः॥ 7-99-15(48600)
हतानां वाजिनागानां रथानां च नरैः सह।
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः॥ 7-99-16(48601)
`श्रमेण महता युक्तास्ते हया वातरंहसः।
मन्दवेगगता राजन्संवृत्तास्तत्र संयुगे'॥ 7-99-17(48602)
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप।
सहसेनौ समार्च्छेतां पाण्डवं क्लान्तवाहनम्॥ 7-99-18(48603)
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम्।
शराणां च शतैरश्वानविध्येतां मुदान्वितौ॥ 7-99-19(48604)
तावर्जुनो महाराज नवभिर्नतपर्वभिः।
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः॥ 7-99-20(48605)
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम्।
आच्छादयेतां संरब्धौ सिंहनादं च चक्रतुः॥ 7-99-21(48606)
तयोस्तु धनुषी मुष्टौ भल्लाभ्यां श्वेतवाहनः।
चिच्छेद समरे तूर्णं भूय एव धनञ्जयः।
अथान्यैर्विशिखैस्तूर्णं ध्वजौ च कनकोज्ज्वलौ॥ 7-99-22(48607)
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा।
पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः॥ 7-99-23(48608)
तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः।
धनुषी चिच्छिदे तूर्णं भूय एव धनञ्जयः॥ 7-99-24(48609)
तथान्यैर्विशिखैस्तूर्णं रुक्मपुङ्खैः शिलाशितैः।
जघानाश्वांस्तथा सूतौ पार्ष्णी च सपदानुगौ॥ 7-99-25(48610)
ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत।
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः॥ 7-99-26(48611)
विन्दं तु निहतं दृष्ट्वा ह्यनुविन्दः प्रतापवान्।
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः॥ 7-99-27(48612)
अभ्यवर्तत सङ्ग्रामे भ्रातुर्वधमनुस्मरन्।
गदया रथिनां श्रेष्ठो नृत्यन्निव महारथः॥ 7-99-28(48613)
अनुविन्दस्तु गदया ललाटे मधुसूदनम्।
स्पष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम्॥ 7-99-29(48614)
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः।
निचकर्त स सञ्छन्नः पपाताद्रिचयो यथा॥ 7-99-30(48615)
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः।
अभ्यद्रुवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान्॥ 7-99-31(48616)
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ।
व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये॥ 7-99-32(48617)
तयोः सेनामतिक्रम्य कृच्छ्रादिव धनञ्जयः।
विबभौ जलदं हित्वा दिवाकर इवोदितः॥ 7-99-33(48618)
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः।
अभ्यवर्तन्त पार्थं च समन्ताद्भरतर्षभ॥ 7-99-34(48619)
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम्।
सिंहनादेन महता सर्वतः पर्यवारयन्॥ 7-99-35(48620)
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्भः।
शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत्॥ 7-99-36(48621)
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः।
किमिहानन्तरं कार्यं साधिष्ठं तव रोचते॥ 7-99-37(48622)
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा।
भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः॥ 7-99-38(48623)
मम त्वनन्तरं कृत्यं यद्वै तत्त्वं निबोध मे।
हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव॥ 7-99-39(48624)
सञ्जय उवाच। 7-99-40x(4517)
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम्।
ममाप्येतन्मतं पार्थ यदितं ते प्रभाषितम्॥ 7-99-40(48625)
अर्जुन उवाच। 7-99-41x(4518)
अहमावारयिष्यामि सर्वसैन्यानि केशव।
त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम्॥ 7-99-41(48626)
सञ्जय उवाच। 7-99-42x(4519)
सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः।
गाण्डीवं धनुरादाय तस्थौ गिरिविवाचलः)॥ 7-99-42(48627)
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः।
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम्॥ 7-99-43(48628)
तमेकं रथवंशेन महता पर्यवारयन्।
विकर्षन्तश्च चापानि विसृजन्तश्च सायकान्॥ 7-99-44(48629)
शस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन्।
छादयन्तः शरैः पार्थं मेघा इव दिवाकरम्॥ 7-99-45(48630)
अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम्।
नरसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः॥ 7-99-46(48631)
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत।
यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत्॥ 7-99-47(48632)
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः।
इषुभिर्बुभिस्तूर्णं सर्वानेव समावृणोत्॥ 7-99-48(48633)
तत्रान्तरिक्षे बाणानां प्रगाढानां विशाम्पते।
सङ्घर्षेण महार्चिष्मान्पावकः समजायत॥ 7-99-49(48634)
तत्रतत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः।
हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शन॥ 7-99-50(48635)
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे।
एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत॥ 7-99-51(48636)
शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम्।
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम्॥ 7-99-52(48637)
असङ्ख्येयमपारं च रजो नीरमतीव च।
उष्णीषकमठं छत्रपताकाफेनमालिनम्॥ 7-99-53(48638)
रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम्।
वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत्॥ 7-99-54(48639)
[धृतराष्ट्र उवाच। 7-99-55x(4520)
अर्जुने धरणीं प्राप्ते हयहस्ते च केशवे।
एतदन्तरमासाद्य कथं पार्थो न घातितः॥ 7-99-55(48640)
सञ्जय उवाच। 7-99-56x(4521)
सद्यः पार्थिव पार्थेन निरुद्धाः सर्वपार्थिवाः।
रथस्था धरणीस्थेन वाक्यमच्छान्दसं यथा॥ 7-99-56(48641)
स पार्थः पार्थिवान्सर्वान्भूमिस्थोपि रथस्थितान्।
एको निवारयामास लोभः सर्वगुणानिव॥] 7-99-57(48642)
ततो जनार्दनः सङ्ख्ये प्रियं पुरुषसत्तमम्।
असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत्॥ 7-99-58(48643)
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन।
परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम्॥ 7-99-59(48644)
इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम्।
अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम्॥ 7-99-60(48645)
[हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्।
सुविस्तीर्णं प्रसन्नाम्भः प्रफुल्लवरपङ्कजम्॥ 7-99-61(48646)
कूर्ममत्स्यगणाकीर्णमगाधमृषिसेवितम्।
आगच्छन्नारदमुनिर्दर्शनार्थं कृतं क्षणात्॥] 7-99-62(48647)
शरवंशं शरस्थूणं शराच्छादनमद्भुतम्।
शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत्॥ 7-99-63(48648)
ततः प्रहस्य गोविन्दः साधुसाध्वित्यथाब्रवीत्।
शरवेश्मनि पार्थेन कृते तस्मिन्महात्मना॥ ॥ 7-99-64(48649)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनशततमोऽध्यायः॥ 99 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-99-17 स्नायुनद्धाः सूक्ष्मचर्माग्रग्रथिताः॥ 5-99-9 क्रोशं कोशमुद्दिश्य॥ 5-99-25 सूतौ सारथी। पाष्णीं पृष्ठरक्षौ॥ 5-99-30 अद्रिचयो निरिशृङ्गम्॥ 5-99-49 प्रगाढानां व्यवगाढानाम्॥ 5-99-54 वेलाभूतो मर्यादारूपः॥ 5-99-55 कुण्डलितास्त्रयः श्लोकाः झ. पाठे एव वर्तन्ते॥ 5-99-59 अलं पर्याप्तम्॥ 5-99-60 अभिहत्य खात्वा। दाजिपानं अश्वपानीयम्॥ 5-99-61 हंसकारण्डवाकीर्णमित्यादियोग्यतया वर्णनम्॥ कुण्डलितौ द्वौ श्लोकौ घ.झ.पाठयोरेव॥ 5-99-63 वंशः शालाधारकाष्ठम्। स्थूणा मध्यस्तम्भः॥ 5-99-99 एकोनशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|